Shivashtakam Stotra | शिवाष्टकम स्तोत्र | Shiv Ji Bhajan 2024

Shivashtakam Stotra (शिवाष्टकम स्तोत्र)

प्रभुं प्राणनाथंम् विभुं विश्वनाथंम् जगन्नाथनाथं सदानन्दभाजाम् । भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शम्भुमीशानमीडे

गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशादिपालम् । जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शम्भुमीशानमीडे

मुदामाकरं मण्डनं मण्डयन्तं महामण्डलं भस्मभूषाधरं तम् । अनादिं ह्यपारं महामोहमारं शिवं शङ्करं शम्भुमीशानमीडे

वटाधोनिवासं महाट्‍टाट्‍टहासं महापापनाशं सदासुप्रकाशम् । गिरीशं गणेशं सुरेशं महेशं शिवं शङ्करं शम्भुमीशानमीडे

गिरिन्द्रात्मजासङ्गृहीतार्धदेहं गिरौसंस्थितं सर्वदा पन्नगेहम् । परब्रह्मब्रह्मादिभिर्वन्द्यमानं शिवं शङ्करं शम्भुमीशानमीडे

कपालं त्रिशूलं कराभ्यां दधानं पदाम्भोजनम्राय कामं ददानम् । बलीवर्दयानं सुराणां प्रधानं शिवं शङ्करं शम्भुमीशानमी

शरच्चन्द्रगात्रं गणानन्दपात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् । अपर्णाकलत्रं सदासच्चरित्रं शिवं शङ्करं शम्भुमीशानमीडे

हरं सर्पहारं चिताभूविहारं भवं वेदसारं सदा निर्विकारम् । श्मशाने वसन्तं मनोजं दहन्तं शिवं शङ्करं शम्भुमीशानमीडे

स्तवं यः प्रभाते नरश्शूलपाणेः पठेत् स्तोत्ररत्नं त्विहप्राप्यरत्नम् । सुपुत्रं सुधान्यं सुमित्रं कलत्रं विचित्रैस्समाराध्य मोक्षं प्रयाति